सामग्री पर जाएँ

औरभ्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

औरभ्रः, पुं, (उरभ्रस्य मेषस्य इदम् । उरभ्र + अण् ।) कम्बलः । तत्पर्य्यायः । उर्णायुः २ आविकः ३ रल्लकः ४ । इति हेमचन्द्रः ॥ (मेषमांसम् । यथा मनुः । ३ । २६८ । “द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै” ॥ मेषदुग्धम् । यथा, -- “औरभ्रं मधुरं रूक्षमुष्णं वातकफापहम् । न शस्तं रक्तपित्तानां वातिकानां हितं भवेत्” ॥ इति हारीते प्रथमस्थाने । ८ अध्याये ॥ धन्वन्तरिं प्रति प्रश्नकारकः ऋषिभेदः । यथा सुश्रुते सूत्रस्थाने १ । “अथ खलु भगवन्तममर- बरमृषिगणपरिवृतमाश्रमस्थं काशीराजं दिवो- दासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत- करवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥)

"https://sa.wiktionary.org/w/index.php?title=औरभ्रः&oldid=121672" इत्यस्माद् प्रतिप्राप्तम्