सामग्री पर जाएँ

औरसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

औरसः, पुं स्त्री, (उरसा निर्म्मितः । उरस् अण् ।) स्वजातपुत्त्रः । तत्पर्य्यायः । औरस्यः २ । इत्य- मरः ॥ उरस्यः ३ । इति तट्टीका ॥ द्वादशविध- पुत्त्रान्तर्गतश्रेष्ठपुत्त्रोऽयम् । स तु सवर्णायां भा- र्य्यायां म्वयं जनितः । यथा । “सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं विद्यात्” । इति बौधायनः ॥ (तथा मनुः । ९ । १६६ । “स्वे क्षेत्रे संस्कृतायान्तु स्वयमुत्पादयेद्धि यम् । तमौरसं विजानीयात् पुत्त्रं प्रथमकल्पितम्” ॥) “औरसो धर्म्मपत्नीजः” इत्यादि याज्ञवल्क्यः ॥ २ । १३१ ॥

"https://sa.wiktionary.org/w/index.php?title=औरसः&oldid=121680" इत्यस्माद् प्रतिप्राप्तम्