सामग्री पर जाएँ

और्द्ध्वदेहिकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

और्द्ध्वदेहिकम्, त्रि, (ऊर्द्ध्वदेहाय भवम् । ऊर्द्ध्वदेह + ठञ् ।) मृतार्थं तदहर्दानम् । इत्यमरः ॥ यदह्नि मृतस्तदहःप्रभृति सपिण्डीकरणात् पूर्ब्बं प्रेत- तृप्तिहेतुकं यत् पिण्डादिदानं तत् । इति भरतः ॥ (पुत्त्रदाराद्यवश्यभर्त्तव्यपीडनेन यत्पारलौकिक- धर्म्मबुद्ध्या दानादि करोति तस्य दातुर्जीवतो मृतस्य च तद्दानं दुःखफलं भवति । यथा मनुः ११ । १० । “वृत्यानामुपरोधेन यत्करोत्यौर्द्ध्वदेहिकम् । तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च” ॥ तथा रामायणे २ । ७७ । ३ । “दासीर्दासांश्च यानानि वेश्मानि सुमहान्ति च । ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्द्ध्वदेहिकम्” ॥ (और्द्ध्वदैहिकम् इत्यपि स्यात् ॥)

"https://sa.wiktionary.org/w/index.php?title=और्द्ध्वदेहिकम्&oldid=121688" इत्यस्माद् प्रतिप्राप्तम्