सामग्री पर जाएँ

और्व्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

और्व्वम्, क्ली, (उर्व्व्यां भवम् । उर्व्वी + अण् ।) पांश- वलवणम् । इति राजनिर्घण्टः ॥

और्व्वः, पुं, (और्व्वात् भृगुवंशीयात् ऋषेर्जातः । और्व्व + अण् । और्व्वर्षिक्रोधजत्वात्तथात्वम् ।) वाड- वानलः । इत्यमरः ॥ स तु भूगोलस्य दक्षिण- सीमा । तत्र सर्व्वे नरकाः दैत्याश्च वसन्ति । इति सिद्धान्तशिरोमणिः ॥ स्वनामख्यातो भृगुवंशीय- ऋषिभेदः । तज्जन्मादिकथा, महाभारते चैत्ररथ- पर्ब्बणि १७९ अध्याये । उक्ता । यथा, -- “ततो भहीतलं तात क्षत्रियेण यदृच्छया । खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ॥ तद्वित्तं ददृशुः सर्व्वे समेताः क्षत्रियर्षभाः । अवमन्य ततः क्रोधाद्भृगंस्ताश्छरणागतान् ॥ निजर्घ्नः परमेष्वासाः सर्व्वांस्तान्निशितैः शरैः । आगर्भादवकृन्तन्तश्चेरुः सर्व्वां वन्धसुराम् ॥ तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा । भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे ॥ तासामन्यतमा गर्भं भयाद्दध्रे महौजसम् । ऊरुणैकेन वामोरुर्भर्त्तुः कुलविवृद्धये ॥ तद्गर्भमुपलभ्याशु ब्राह्मणी या भयार्द्दिता । गत्वैका कथयामास क्षत्रियाणामुपह्वरे ॥ ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः । ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा” ॥ “अथ गर्भः स भित्त्वोरु ब्राह्मण्या निर्जगाम ह । मुष्णन् दृष्टीः क्षत्रियानां मध्याह्नैव भास्करः ॥ ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः” ॥ अयमौर्व्वस्तु पितृबधामषात् क्षत्रियबधे कृत- प्रतिज्ञ उग्रे तपसि वर्त्तमानः पितृभिर्निवारितः । ततो वृथाप्रतिज्ञो नाहं भवितुमुत्सहे इति जातशङ्कः अमोघत्वाच्च क्रोधवह्वेः पितॄनुक्तवान् । यथा तत्रैव १८१ अध्याये । “यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति । दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ भबताञ्च विजानामि सर्व्वलोकहितेप्सुताम् । तस्माद्विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ पितर ऊचुः । य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । अप्सु तं मुञ्च भद्रन्ते लोका ह्यप्सु प्रतिष्ठिताः ॥ आपोमयाः सर्व्वरसाः सर्व्वमापोमयं जगत् । तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ अयं तिष्ठतु ते विप्र यदिच्छसि महोदधौ ॥ मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति । नचैवं समरा लोका गमिष्यन्ति पराभवम् ॥ वशिष्ठ उवाच । ततश्च क्रोधजं तात और्व्वोऽग्निं वरुणालये । उत्ससर्ज्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः” ॥) (उर्व्वस्यापत्यम् ।) पञ्चप्रवरान्तर्गतमुनिविशेषः । इति पुराणम् ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

और्व्व¦ m. (-र्व्वः) Submarine fire. E. उर्व्व a saint so named, from whose thighs sprang a being of flame, which was received by the ocean; the affix is अण्।

"https://sa.wiktionary.org/w/index.php?title=और्व्व&oldid=254898" इत्यस्माद् प्रतिप्राप्तम्