औष्ट्रकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औष्ट्रकम्, क्ली, (उष्ट्राणां समूहः । उष्ट्रस्य विकारः अवयवो वा । उष्ट्र + “गोत्रोक्षोष्ट्रोरभ्रेति” । ४ । २ । ३९ । वुञ् ।) उष्ट्रसमूहः । इत्यमरः ॥ उटेर पाल इति भाषा । (उष्ट्रदुग्धार्थे यथा ॥ वाभटे सूत्रस्थाने । ५ अ ॥ “ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु । शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्” ॥)
