कंसम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसम्, क्ली पुं, (कामयति काम्यते वा अनेन पातुमितिशेषः । “वृतॄवदिहनिकमीति” सः । उणां । ३ । ६२ ।) मद्यादिपानपात्रम् । तत्पर्य्यायः । पानभाजनम् २ । इत्यमरः ॥ २ । ९ । ३२ । कंशम् ३ । कांस्यम् ४ । इति तट्टीका । तैजसद्रव्यम् । स्वर्णरजतादिनिर्म्मितपात्रमात्रम् । मानविशेषः तत्तु आढकपरिमाणम् । इति मेदिनी ॥ (चतुः षष्टिपलात्मकाढकरूपम् ॥ यथा भावप्रकाशे । “शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः । शरावाभ्यां भवेत् प्रस्थश्चतुः प्रस्थैस्तथाढकः । भाजनं कांसपात्रञ्च चतुःषष्टिपलश्चसः” ॥ ताम्रवङ्गमिश्रितधातुविशेषः । का~सा इति भाषा । तत्पर्य्यायः । कांस्यम् २ । कंसास्थि ३ । ताम्रार्द्धम् ४ । इति त्रिकाण्डशेषः ॥ (वर्तुलाकारयज्ञिय- पात्रभेदः । यथा शतपथब्राह्मणे । १४ । ९ । ३ । १ । “औडुम्बरे कंसे चमसे वा” ।)

"https://sa.wiktionary.org/w/index.php?title=कंसम्&oldid=121754" इत्यस्माद् प्रतिप्राप्तम्