कक्कोलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्कोलः, पुं क्ली, (ककते गच्छति दिशि प्रकाशते इत्यर्थः ततः क्विप् कक्कोलति संस्त्यायति कुल- धातोर्ज्वलादित्वात् णः । कक्चासौ कोलश्चेति । “पूगकक्कोलकर्पूरलवङ्गसुमनःफलैरित्युक्तेः” ।) सुगन्धिद्रव्यविशेषः । का~कला इति भाषा । अस्य गुणाः । कटुत्वम् । हृद्यत्वम् । सुगन्धित्वम् । कफ- वातनाशित्वञ्च । इति राजवल्लभः ॥ (यथा रामा- यणे ३ काण्डे । “वनानि च सुरम्याणि कक्कोलानां त्वचस्य च” ॥)

"https://sa.wiktionary.org/w/index.php?title=कक्कोलः&oldid=121834" इत्यस्माद् प्रतिप्राप्तम्