कक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षा, स्त्री, (कष-हिंसादौ + सः टाप् च ।) हस्ति- रज्जुः । काञ्ची । गेहप्रकोष्ठकः । (यथा, भागवते ३ । १५ । २७ । “तस्मिन्नतीत्य मुनयः सडसज्जमानाः कक्षाः समानवयसावथ सप्तमायाम्” ॥) भित्तिः । साम्यम् । रथभागः । अन्तरीयपश्चिमा- ञ्चलम् । परिधानवस्त्रस्य पृष्ठतो निहिताञ्चलम् । उद्ग्राहिणी । इति हेमचन्द्रः ॥ (काछा को~चा आ~चल् इत्यादि भाषा ॥ यथाह योगियाज्ञवल्क्यः । “परिधानात् वहिः कक्षा निबद्धा ह्यासुरी भवेत्” ॥) “वामे पृष्ठे तथा नाभौ कक्षात्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः” ॥ इति स्मृतिः ॥ स्पर्द्धापदम् । इति मेदिनी रुद्रश्च ॥ कक्ष्या । हस्ति- मध्यदेशब्न्धनरज्जुः । इत्यमरटीकायां भरतः ॥ क्षुद्ररोगविशेषः । तस्य लक्षणं यथा, -- “बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् । पित्तप्रकोपसम्मूतां कक्षामित्यभिनिर्दिशेत्” ॥ इति माधवकरः ॥ तच्चिकित्सा यथा, -- “कक्षाञ्च गन्धनाम्नीञ्च चिकित्सति चिकित्सकः । पैत्तिकस्य विसर्पस्य क्रियया पूर्ब्बमुक्तया” ॥ इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षा¦ स्त्री कष--स।

१ उत्तरीयवस्त्रे

२ काञ्च्याम्

३ मध्य-बन्धने

४ हस्तिबन्धने च विश्वः

५ मध्ये

६ संशयकोटौ

७ तुल्यतायाञ्च। समकक्षः। कक्षीकृतः क्रोडीकृतः।

८ रा-जान्तःपुरे च तत्र मध्यबन्धने
“युधे परैःसह दृढबद्धकक्षया” माघः
“कक्षा मध्यबन्धनम्” मल्लि॰ कक्षशब्दे उक्तार्थेषु च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षा f. painful boils in the armpit Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कक्षा&oldid=494325" इत्यस्माद् प्रतिप्राप्तम्