कक्ष्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्या, स्त्री, (कक्षे भवा । कक्ष + शरीरावयवात् + यत् टाप् च ।) कक्षरज्जुः । काछदडी इति ख्याता । चर्म्मरज्जुः । इत्यन्ये । इति भरतः ॥ गजमध्यबन्धनचर्म्मरज्जुः । इति सारसुन्दरी ॥ तत्- पय्यार्यः । चूषा २ वरत्रा ३ । इत्यमरः ॥ २ । ८ । ४२ । वूषा ४ दृष्या ५ दूष्या ६ कक्षा ७ । इति तट्टीका । हर्म्म्यादिप्रकोष्ठः । राजगृहादेर्वेष्टनावच्छिन्नो देशः । (महल इति भाषा । यथा रामायणे । २ । २० । ११ । “प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः । ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्” ॥) काञ्ची । इत्यमरः ॥ ३ । ३ । १५७ । अन्तर्गृहमिति सुभूतिः ॥ (यथा, कुमारे ७ । ७० । “क्रान्तानि पूर्ब्बं कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश” ॥) सादृश्यम् । उद्योगः । वृहतिका । उत्तरीय- वस्त्रम् । इति हेमचन्द्रः ॥ गुञ्जा । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्या स्त्री।

गजमध्यबन्धनचर्मरज्जुः

समानार्थक:दूष्या,कक्ष्या,वरत्रा

2।8।42।1।2

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

कक्ष्या स्त्री।

हर्म्यादेः_प्रकोष्ठम्

समानार्थक:कक्ष्या

3।3।158।2।1

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

कक्ष्या स्त्री।

स्त्रीकटीभूषणम्

समानार्थक:मेखला,काञ्ची,सप्तकी,रशना,सारसन,कक्ष्या

3।3।158।2।1

छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः। कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

पदार्थ-विभागः : आभरणम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष्या f. girth (of an animal) , girdle , zone RV. AV. viii , 4 , 6 ; xviii , 1 , 15 MBh. etc. (See. बद्ध-कक्ष्य)

कक्ष्या f. the enclosure of an edifice (either the wall etc. so enclosing it , or the court or chamber constituting the enclosure , the inner apartment of a palace) MBh. R. etc.

कक्ष्या f. the orbit of a planet A1ryabh.

कक्ष्या f. the scale of a balance Pat.

कक्ष्या f. an upper garment L.

कक्ष्या f. similarity , equality L.

कक्ष्या f. effort , exertion L.

कक्ष्या f. a shrub yielding the black and red berry (that serves as a jeweller's weight) , the Retti or गुञ्ज, Abrus Precatorius L.

कक्ष्या f. pl. the fingers Nigh.

"https://sa.wiktionary.org/w/index.php?title=कक्ष्या&oldid=494332" इत्यस्माद् प्रतिप्राप्तम्