कङ्कणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कङ्कणम् क्ली, (कं शुभं कणतीति । क + कण शब्दे + कर्त्तरि अच्-पृषोदरादित्वात् णत्वम् ।) स्वन्यम- ख्यातहस्ताभरणम् । तत्पर्य्यायः । करभूषणम् २ ॥ इत्यमरः २ । ६ । १०८ ॥ कौशुकम् ३ । इति शब्दरत्नावली ॥ (यथा, भागवते ६ । १६ । ३० । “मृणालगौरं सितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम्” ॥) हस्तसूत्रम् । मण्डनम् । शेखरम् । इति विश्वः ॥
