कचः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कचः, पुं, (कचते शोभते शिरसीति । कच् + पचा- द्यच् । कच्यते बध्यते इति कच बन्धे + कर्म्मणि अप् वा ।) केशः । इत्यमरः ॥ २ । ६ । ९५ ॥ (यथा, महाभारते १ । १२८ । १९ ॥) “कचेषु च निगृह्यैतान् निविहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्” ॥) वृहस्पतिपुत्त्रः । (कचते दीप्यते तपस्तेजसेति कच् + दीप्तौ + पचाद्यच् । पुरा किल सुरासुर- संग्रामे असुराणां यानेव देवा निजघ्नस्तांश्चासुर- गुरुरुशनाः सञ्जीवनीविद्यया पुनर्जीवयामास । सुरगुरुर्वृहस्पतिः पुनस्तद्विद्यानभिज्ञतया सुरान् रणनिहतान् जीवयितुं न शशाक । तद्दर्शनभीता देवा गुरुपुत्रं कचमुपागम्य अर्थ्यामिर्वाग्मिः सन्तोष्य तं सञ्जीवनीलाभाय शुक्रसकाशं प्रेरया- मासुः । कचो ऽपि सुरकार्य्यसिद्धये गुरुत्वेनाङ्गी कृत्य नितरां भक्त्या परिचर्य्यया च काव्यं परितो- षयन् ब्रह्मचर्य्यमालम्ब्याधीतवान् । क्रूरप्रकृतयो दैत्याः खलु कचाभिसन्धिं विज्ञाय तं वारद्वयं निहत्यापि यदा पूर्णकामा नासन् तदा भूयोऽपि तन्मांसादिकं लवशः कृत्वा शुक्रमेव सुरयासह भोजयामासुः शुक्रस्तु स्वदुहितुर्देवयान्याः सस्नेह- निर्ब्बन्धांतिशयेन स्वोदरगतं कचं सञ्जीवनीविद्यां प्रदायाजीवयत् । ततः प्राप्तजीवः कृतार्थश्च कचो- ऽतीवहृष्टचित्तया देवयान्या पतित्वेन अनुरुद्धो- ऽपि सम्बन्धानुरोधात् नैव स्वीचकार । सुतरां क्रोधपरतन्त्रया तया निष्फलविद्यो भवेत्यभि- शप्तस्तेनापि त्वमपि क्षत्त्रियभार्य्या भविष्यसीति शप्ता देवयानी ॥ एतद्विवरणं सविस्तरं महाभार- तीयसम्भवपर्ब्बणि १ । ७६ अध्याये दर्शनीयम् ॥) बन्धः । शुष्कव्रणः । इति मेदिनी ॥ मेघः । इति शब्दमाला ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कचः [kacḥ], [कच्यन्ते बध्यन्ते इति कचः, कच्-अच्]
Hair (especially of the head); कचेषु च निगृह्यैतान् Mb.; see ˚ग्रह below; अलिनीजिष्णुः कचानां चयः Bh.1.5.
A dry or healed sore, scar.
A binding, band.
The hem of a garment.
A cloud.
N. of a son of Brihaspati. [In their long warfare with the demons, the gods were often times defeated, and rendered quite helpless. But such of the demons as would be slain in battle were restored to life by Śukrāchārya, their preceptor, by means of a mystic charm which he alone possessed. The gods resolved to secure, if possible, this charm for themselves, and induced Kacha to go to Śukrāchārya and learn it from him by becoming his disciple. So Kacha went to the preceptor, but the demons killed Kacha twice lest he should succeed in mastering the lore; but on both occasions he was restored to life by the sage at the intercession of Devayānī, his daughter, who had fallen in love with the youth. Thus discomfited the Asuras killed him a third time, burnt his body, and mixed his ashes with Śukra's wine; but Devayānī again begged her father to restore to life the youth. Not being able to resist his daughter's importunities, Śukra once more performed the charm, and, to his surprise, heard the voice of Kacha issuing from his own belly. To save his own life the sage taught him the muchcoveted charm, and, on the belly of Śukra being ripped open, Kacha performed the charm and restored his master to life. Devayānī thence forward began to make stronger advances of love to him, but he steadily resisted her proposals, telling her that she was to him as a younger sister. She thereupon cursed him that the great charm he had learnt would be powerless; he, in return, cursed her that she should be sought by no Brāhmaṇa, but would become a Kṣatriya's wife.]
चा A female elephant; करिण्यां तु कचा स्त्रियाम् । मेदिनी.
Beauty, splendour. -Comp. -अग्रम् curls, end of hair. -आचित a. having dishevelled hair; कचाचितौ विष्वगिवागजौ गजौ Ki.1.36. -आमोदः a. fragrant ointment of the hair (वाळा). -ग्रहः seizing the hair, seizing (one) by the hair; Mb.5.155.5; R.1.47, पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः R.19.31.
पः 'cloud drinker', grass.
a leaf. (-पम्) a vessel for vegetables. -पक्षः, -पाशः, -हस्तः thick or ornamented hair; (according to Ak. these three words denote a collection; पाशः, पक्षश्च हस्तश्च कलापार्थाः कचात्परे).-मालः smoke.
