सामग्री पर जाएँ

कच्छुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कच्छुः, स्त्री, (कर्षति देहं । कष हिंसायां + “कषच्छ- श्चेति” १ । ८६ । उणां ऊ छान्तादेशश्च ।) पृषोदरा- दित्वात् वा ह्रस्वः । रोगविशेषः । तस्य लक्षणम् । “सूक्ष्मा बह्व्यः पिडकाः स्राववत्यः पामेत्युक्ता कण्डूमत्यः सदाहाः । सैव स्फोटैस्तीव्रदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च” ॥ इति निदानम् ॥ तच्चिकित्सा यथा । “अर्कपत्ररसे पक्वं हरिद्राकल्कसंयुतम् । नाशयेत् सार्षपं तैलं पामाकच्छुविचर्च्चिकाम्” ॥ इति अर्कतैलम् ॥ १ ॥ “मनःशिलालं कासीसं गन्धाश्मा सिन्धुजन्म च । स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी ॥ लाङ्गलीरवींरश्च दद्रुघ्नः कृमिहानलः । दन्ती निम्बदलञ्चैभिः पृथक् कर्षमितैर्भिषक् ॥ कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितम् । अर्कसीहुण्डदुग्धेन पृथक् पलमितेन च ॥ गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत् । अभ्यङ्गेन हरेदेतत् कच्छुदुःसाध्यतामपि ॥ पामानञ्च तथा कण्डूं त्वग्व्याधिवधिरामयान् । कच्छुराक्षसनामेदं तैलं हारीतभाषितम्” ॥ कच्छुराक्षसनाम तैलम् ॥ २ ॥ इति भावप्रकाशः ॥ (“अवल्गुजं कासमर्दं चक्रमर्दं निशायुतम् । माणिमन्थेन तुल्यांशं मस्तुकाञ्जिकपेषितम् । कच्छुं कण्डूं जयन्त्युग्रां सिद्धत्रयप्रयोगराट् ॥ कोमलं सिंहास्यदलं सनिशं सुरभिजलेन पिष्टम् । दिवसत्रयेण नियतं क्षपयति कच्छुं विलेपनतः । हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम् । पिबेन्नरः कामचारी कच्छुपामाविनाशनम् ॥ शोथपाण्ड्वामयहरी गुल्ममेहकफापहा । कच्छुपामाहरी चैव पथ्या गोमूत्रसाधिता ॥ * ॥ स्वरसेऽपि च दूर्व्वायाः पचेत्तैलं चतुर्गुणम् । कच्छुर्विचर्चिका-पामा अभ्यङ्गादेव नाशयेत्” ॥ इति दूर्व्वाद्यं तैलम् ॥ * ॥ “सोमराजी हरिद्रे द्वे सर्षपारग्वधं गदम् । करञ्जवीजैडगजं गर्भं दत्त्वा विपाचयेत् ॥ तैलं सर्षपसम्भूतं नाडीदुष्टव्रणापहम् । अनेनाशु प्रणश्यन्ति कुष्ठान्यष्टादशैव तु ॥ नीलिकापि पुरोव्यङ्गगम्भीरं वातशोणितम् । कण्डूकच्छप्रशमनं कच्छुपामा विनाशनम्” ॥ इति सोमराजीतैलम् ॥ * ॥ इति चक्रपाणिकृतसंग्रहः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कच्छुः [kacchuḥ] कच्छू [kacchū], कच्छू f. Itch, scab. -Comp. -घ्नी the plant (पटोल; Mar. कडू पडवळ); another plant (हपुषाभेद).

"https://sa.wiktionary.org/w/index.php?title=कच्छुः&oldid=256216" इत्यस्माद् प्रतिप्राप्तम्