कञ्जज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कञ्जजः, पुं, (कञ्जात् विष्णोर्नाभिपद्मात् जातः । जन + कर्त्तरि डः ।) ब्रह्मा । इति शब्दरत्नावली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कञ्जज¦ पु॰ कञ्जात् विष्णुनाभिपद्मात् जायते जन--ड। हिर-गर्भे चतुमुखे ब्रह्मणि शब्द रत्ना॰। यथा च ब्रह्मणोविष्णु-नाभिजातकमलादुद्भवस्तथा वर्णितं भाग॰
३ ,
३ ,
१९ , अ॰
“सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिसुदी-रयाणः। उवास तस्मिन् सलिले पदे स्वे यथानलो दारुनि-रुद्धवीर्य्यः। चतुर्युगानाञ्च सहस्रमप्सु स्वपन् स्वयोदीरितयास्वशक्त्या। कालाख्ययासादित कर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे। तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थोरजसा तनीयान्। गुणेन कालानुगतेन विद्धः सृष्टुस्त-दाभिद्यत नाभिदेशात्। स पद्मकोषः सहसोदतिष्ठत् का-लेन कर्मप्रतिबोधितेन। स्वरोचिषा तत् सलिलं विशालंविद्योतयन्नर्क इवात्मयोनिः। तल्लोकपद्मं सौ एव विष्णुःप्रावीविशत् सर्व्वगुणावभासम्। तस्मिन् स्वयं वेदमयोविधाता स्वयम्भुवं यं प्रवदन्ति सोऽभूत्। तस्यां सचाम्भो-रुहकर्णिकायामवस्थितोलोकमपश्यमानः। परिक्रमन्व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं सुखानि। तस्मात्युगान्तश्वसनावघूर्णजलोर्मिचक्रात् सालिलाद्विरूढम्। अपा-श्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कञ्जज¦ m. (-जः) A name of BRAHMA. E. कञ्ज a lotus, and ज born.