कटकार
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटकार¦ त्रि॰ कटं करोति कृ--अण् उप॰ स॰।
१ कट-कारिणि शिल्पिभेदे
“शूद्रायां वैश्यत्रश्चौर्य्यात् कटकारःइति स्मृतः” उशनसोक्ते
२ वर्ण्णसङ्करभेदे पुंस्त्री स्त्रियांङीष्।
“वशिष्ठशापतस्त्वेषां केचित् पारशवास्तथा। बैखानसेन केचित्तु केचिद्भागवतेन च। वेदशास्त्रावल-म्बास्ते भविष्यन्ति कलौ युगे। कटकारास्ततः पश्चान्-नारायणगणाः स्मृताः”। उशनसा तेषां कलौ वैखानसा-दिसंसर्गेण वेदधर्म्मनिष्ठत्वप्राप्तिः वैष्णत्व प्राप्तिश्चोक्ता। कृ-क्विप्। कटकृदप्यत्र
“एरकां कटकद्यथा” भाग॰
१ ,
३ ,
१९ ।
