कटम्भरा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटम्भरा, स्त्री, (कटं बिभर्त्ति या । भृ + खच् मुम् टाप्च ।) राजबला । इत्यमरः । २ । ४ । १५३ ॥ प्रसारणी । गन्धभादालिया इति भाषा । रो- हिणी । कटकी इति भाषा । हस्तिनी । कलम्बिका । गोला । वर्षाभूः । मूर्ब्बा । इति मेदिनी ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटम्भरा स्त्री।
कटुरोहिणी
समानार्थक:कटु,कटम्भरा,अशोकरोहिणी,कटुरोहिणी,मत्स्यपित्ता,कृष्णभेदी,चक्राङ्गी,शकुलादनी
2।4।85।2।2
एकाष्ठीला पापचेली प्राचीना वनतिक्तिका। कटुः कटम्भराशोकरोहिणी कटुरोहिणी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
कटम्भरा स्त्री।
प्रसारिणी
समानार्थक:सरणा,प्रसारिणी,कटम्भरा,राजबला,भद्रबला
2।4।153।1।1
तस्यां कटम्भरा राजबला भद्रबलेत्यपि। जनी जतूका रजनी जतुकृच्चक्रवर्तिनी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटम्भरा¦ f. (-रा)
1. A plant, (Pœderia fetida.)
2. A medicinal plant, कटुकीः see the preceding.
3. A sort of cucumber, (Cucumis Ma- draspatanus.)
4. A female elephant.
5. Red arsenic.
6. A plant, (Aletris hyacinthoides:) see मुर्व्वा।
7. Hog-weed. E. As before, भृ to nourish, &c.