कटित्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटित्रम्, क्ली, (कटिं त्रायते इति । कटि + त्रै + कः ।) रसना । कटिवस्त्रम् । कटिवर्म्म । इति मेदिनी- करहेमचन्द्रु ॥ (यथा भागवते । ६ । १६ । ३० । “मृणालगौरं शितिवाससं स्फुरत्- किरीटकेयूरकटित्रकङ्कणम्” ।)
