कटिप्रोथः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटिप्रोथः, पुं, (प्रोथतीति प्रोथृ + पर्य्याप्तौ पुंसीति घः । कट्याः प्रोथः मांसपिण्डः ।) कटिदेशस्थमांस- पिण्डम् । गुदपुला पोदेर पेलो इति भाषा । तत्पर्य्यायः । स्फिक् २ । इत्यमरः । २ । ६ । ३५ ॥ पूलकः ३ कटीप्रोथः ४ । इति रभसः ॥ कटिः ५ प्रोथः ६ । इति केचित् ॥ पूलः ७ । इति भरतः ॥
