कटुकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटुकम्, क्ली, (कटुकानां कटुरसानां त्रयं कटोः संज्ञायां कन् ।) त्रिकटु । इति मेदिनी ॥ तत्तु शुण्ठी पिप्पली मरिचञ्च ॥ (कटु एव । स्वार्थे कन् । इति विग्रहे वाच्यलिङ्गं । अप्रियम् । यथा, महा- भारते । २ । अनुद्यूतपर्ब्बणि ७७ । १६ । “दुर्य्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् । इति सर्व्वमिदं राजन्नाकुल प्रतिभाति मे” ॥)
