सामग्री पर जाएँ

कटुकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कटुकी, स्त्री, (कटु + स्वार्थे कन् । गौरादित्वात् ङीष् ।) कटुका । इति मेदिनीशब्दरत्नावल्यौ । कट्की इति भाषा ॥ (अस्या गुणाः । “कटुकी तु सरा रूक्षा कफपित्तज्वरापहा” । इति वैद्यकद्रव्यगुणग्रन्थे ॥ “कठ्वी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः । भेदिनी दीपनी हृद्या कफपित्तज्वरापहा । प्रमेहश्वासकासास्रदाहकुष्ठक्रिमिप्रणुत्” ॥ इति भावप्रकाशः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कटुकी¦ स्त्री कटु + स्वार्थेकन् गौरा॰ ङीष्। (कट्की)

१ कटु-कायाम्। कटुकाशब्दे गुणपर्य्यायादि।

"https://sa.wiktionary.org/w/index.php?title=कटुकी&oldid=494459" इत्यस्माद् प्रतिप्राप्तम्