सामग्री पर जाएँ

कटुवर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कटुवर्ग¦ पु॰ कटूनां वर्गः समुदायः। सुश्रुतोक्ते कटुरसानांद्रव्यीणां वर्गे स च वर्गो यथा
“पिप्पल्यादिः सुरसादिःशिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिवकुष्ठदेवदारुहरेणु-कावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकोंशुकनासापीलुप्रभृ-तीनि सालसारादिश्च प्रायशः कटुकोवर्गः”। तत्र पिप्प-ल्यादिः सुरसादिः सालसारादिश्च तत्रैवोक्तो यथा

१ पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्-पलीहरेणुकैलाजमोदेन्द्रयवपाठा जीरकसर्षपमहानिम्बफल-हिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणीचेति” पिप्पल्यादिः।


२ सुरसाश्वेतसुरसाफणिज्झकार्जक-[Page1624-b+ 38] भूस्तृणसुगन्धकसुमुखकालमाल कासमर्द्दक्षवकखरपुष्पाविड-ङ्गकट्फलसुरसीनिर्गुण्डीकूलाहलोन्दुरुकर्णिकाफञ्जीप्राची-नामलकाकमाच्यो विषमुष्टिकश्चेति”।

२ सुरसादि


३ साल-साराजकर्णखदिरकदरकालस्कन्धक्रमुभूर्जमेषशृङ्गीतिनिश-चन्दनकुचन्दनशिंशपाशिरीषासनधवार्जनतालशाकनक्तमाल-पूतीकाश्वकर्णागुरूणि कालीयकञ्चेति”

३ सालसारादि।

"https://sa.wiktionary.org/w/index.php?title=कटुवर्ग&oldid=257078" इत्यस्माद् प्रतिप्राप्तम्