कटोरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटोरम्, क्ली, (कट्यते वृष्यते निषिच्यते वा भक्ष्यद्रव्यं यत्र । कट + अधिकरणे ओलच् । रलयोरैक्यात् लस्य रत्वम् ।) पात्रविशेषः । कटोरा इति भाषा । यथा, -- मेरुतन्त्रे पञ्चमप्रकाशः ॥ * ॥ “मृत्कर्पटे संयुतकाचकूप्यां दत्त्वा मुखं लोहपलोहसूत्रैः । निष्कासितो धूमरसस्तु तस्य सौगन्धिकैः काचकटोरके यः” ॥ किञ्च । “रम्यान्नं देवकीदत्तं पात्रे काञ्चननिर्म्मिते । कटोराणां चतुःषष्टिः पात्रस्योभयतः स्थिता” ॥ इति जैमिनिभारते आश्वमेधिके पर्ब्बणि ९ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कटोरम् [kaṭōram], An earthen vessel.