सामग्री पर जाएँ

कट्फल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फलः, पुं, (कटति कटुतया अन्यरसमावृणो- तीति । कट् + क्विप् । कट् फलं यस्य सः ।) स्वनाम ख्यातफलवृक्षविशेषः । कायफल इति भाषा । तत्पर्य्यायः । श्रीपर्णिका २ कुमुदिका ३ कुम्भी ४ कैटर्य्यः ५ । इत्यमरः २ । ४ । ४० ॥ सोमवल्कः ६ ६ सोमवृक्षः ७ रोहिणी ८ । इति रत्नमाला ॥ कृष्णगर्भः ९ प्रचेतसी १० भद्रावती ११ महा- कुम्भी १२ रामसेनकः १३ कुमुदा १४ उग्रगन्धः १५ भद्रा १६ रञ्जनकः १७ लघुकाश्मर्य्यः १८ श्री- पर्णी १९ काफलः २० परुषः २१ कुमुदी २२ । इति शब्दरत्नावली ॥ अपि च । “कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च । श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥ कट्फलस्तुवरस्तिक्तः कटुर्व्वातकफज्वरान् । हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कासश्वासज्वरोग्रदाहनाशित्वम् । रुचि- कारित्वम् । मुखरोगशमप्रदत्वञ्च । इति राजनि- र्घण्टः ॥ कफरोगनाशित्वम् । इति राजवल्लभः ॥ (“कट्फलः कफरोगघ्नः कासश्वासज्वरापहः” ॥ इति वैद्यकद्रव्यगुणः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फल पुं।

कुम्भी

समानार्थक:श्रीपर्णिका,कुमुदिका,कुम्भी,कैटर्य,कट्फल,भूतिक,सोमवल्क

2।4।40।2।5

तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ। श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फल¦ पु॰ कटति आवृणोत्यन्यरसं कट--क्विप् कट्-फलमस्य। कटुरसतयाऽन्यरसावरकफलके (कायफल)इति ख्याते श्रीपर्ण्णीवृक्षे अमरः। तत्पर्य्यायगुणादिभावप्र॰ उक्त यथा
“कट्फलः सोमवल्कश्च कैटर्य्यःकुम्मिकाऽपि च। श्रीपर्ण्णिका कुमुदिका भद्रा भद्रवतीतिच। कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान्। हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः”।

२ गाम्मार्य्यां स्त्री[Page1625-a+ 38] रत्नमा॰

३ वृहत्यां

४ काकमाच्यां

५ देवदाल्यां

६ वार्त्ताक्यां

७ मृगेर्व्वारौ च स्त्री राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फल¦ m. (-लः) A small tree found in the north-west of Hindustan, the bark and seeds of which are used in medicine, and as aroma- tics; the fruit also is eaten; the common name is Kayaphala. f. (-ला)
1. A plant, (Gmelina arborea, Rox.)
2. The egg plant, &c. E. कट instead of कटु acrid, and फल fruit, fem. affix टाप्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फलः [kaṭphalḥ], N. of a tree, commonly called कायफळ.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फल/ कट्-फल m. (for कटु-फल, but different in meaning from it) , N. of a small tree (found in the north-west of Hindustan , the aromatic bark and seeds of which are used in medicine ; the fruit is eaten ; the common name is Kayaphal) Sus3r.

कट्फल/ कट्-फल See. above.

"https://sa.wiktionary.org/w/index.php?title=कट्फल&oldid=494483" इत्यस्माद् प्रतिप्राप्तम्