सामग्री पर जाएँ

कट्फलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फलः, पुं, (कटति कटुतया अन्यरसमावृणो- तीति । कट् + क्विप् । कट् फलं यस्य सः ।) स्वनाम ख्यातफलवृक्षविशेषः । कायफल इति भाषा । तत्पर्य्यायः । श्रीपर्णिका २ कुमुदिका ३ कुम्भी ४ कैटर्य्यः ५ । इत्यमरः २ । ४ । ४० ॥ सोमवल्कः ६ ६ सोमवृक्षः ७ रोहिणी ८ । इति रत्नमाला ॥ कृष्णगर्भः ९ प्रचेतसी १० भद्रावती ११ महा- कुम्भी १२ रामसेनकः १३ कुमुदा १४ उग्रगन्धः १५ भद्रा १६ रञ्जनकः १७ लघुकाश्मर्य्यः १८ श्री- पर्णी १९ काफलः २० परुषः २१ कुमुदी २२ । इति शब्दरत्नावली ॥ अपि च । “कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च । श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥ कट्फलस्तुवरस्तिक्तः कटुर्व्वातकफज्वरान् । हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कासश्वासज्वरोग्रदाहनाशित्वम् । रुचि- कारित्वम् । मुखरोगशमप्रदत्वञ्च । इति राजनि- र्घण्टः ॥ कफरोगनाशित्वम् । इति राजवल्लभः ॥ (“कट्फलः कफरोगघ्नः कासश्वासज्वरापहः” ॥ इति वैद्यकद्रव्यगुणः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्फलः [kaṭphalḥ], N. of a tree, commonly called कायफळ.

"https://sa.wiktionary.org/w/index.php?title=कट्फलः&oldid=257175" इत्यस्माद् प्रतिप्राप्तम्