कट्वरम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कट्वरम्, क्ली, (कटति वर्षति रसान्तरम् । “छित्वर- च्छत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वर- कट्वरसंयद्वराः” उणां ३ । १ । इति कट् + ष्वरच् । निपातनात् साधु ।) दधिसरः । इति रत्नमाला ॥ व्यञ्जनम् । इत्युणादिकोषः ॥ तक्रम् । यथा । “दध्नः ससारकस्यात्र तक्रं कट्वरमुच्यते” । इति चक्रपाणिकृतसंग्रहे ॥ (“सुवर्च्चिका-नागर-कुष्ठ-मूर्व्वा लाक्षा-निशा-लोहितयष्टिकाभिः । तलं जवरे षडगुणतक्रसिद्ध- मभ्यञ्जनाच्छीतविदाहनुत् स्यात्” ॥ इति षट्कठ्वरं तैलम् ॥)
