सामग्री पर जाएँ

कट्वी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्वी, स्त्री, (कट्यते कटुरसतया स्वाद्यते अनुभूयते वा । कट् + उन् । ततः स्त्रियां ङीप् । वोतो- गुणवचनादिति ङीष् वा । पां । ४ । १ । ४४ ।) कटुका । लताविशेषः । तत्पर्य्यायः । कटुकवल्ली २ सुकाष्ठा ३ काष्ठवल्लिका ४ सुवल्ली ५ महावल्ली ६ पशुमोहनिका ७ कटुः ८ ॥ अस्या गुणाः । मधु- रत्वम् । शीतत्वम् । कफश्वासनानाज्वरहारित्वम् । रुचिकारित्वम् । राजयक्ष्मनिवारणत्वञ्च । इति राजनिर्घण्टः ॥ (कटुकाशब्देऽस्या गणादयो व्या- ख्याताः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कट्वी¦ स्त्री कटु स्त्रियां ङीष्।

१ कटुरसान्वितायां स्त्रियां (कटकी)

२ कटुकायाञ्च मावप्र॰।

"https://sa.wiktionary.org/w/index.php?title=कट्वी&oldid=257194" इत्यस्माद् प्रतिप्राप्तम्