सामग्री पर जाएँ

कठिनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कठिनम्, त्रि, (कठ् + इनन् । उणादिमते तु इनच् । “बहुलमन्यत्रापि” । उणां । २ । ४ । ९ ।) कठरम् । तत्पर्य्यायः । कक्खटम् २ क्रूरम् ३ कठोरम् ४ निष्ठुरम् ५ दृढम् ६ जठरम् ७ मू- र्त्तिमत् ८ मूर्त्तम् ९ । इत्यमरः । ३ । १ । ७६ ॥ खक्खटम् १० कठोलम् ११ जरठम् १२ । इति तट्टीका ॥ कर्करम् १३ कठरम् १४ । इति जटा- धरः ॥ काठरम् १५ कमठायितम् १६ । इति शब्दरत्नावली ॥ स्तब्धम् । इति मेदिनी ॥ (“उन्मूलयंश्च कठिनान् नृपान् वायुरिव द्रुमान्” । कथासरित्सागरे १९ । ८९ ॥ तथा कुमारे ४ । ५ । “न विदीर्य्ये कठिनाः खलु स्त्रियः” ॥ अपि च “भक्ष्यांश्चातिकठिनान् दन्तरोगी विव- र्जयेत्” । सुश्रुते ॥)

कठिनम्, क्ली, स्त्री, (कठ् + “बहुलमत्रापि” । उणां २ । ४९ । इति इनच् ।) स्थाली । इति मे- दिनीशब्दरत्नावल्यौ ॥

"https://sa.wiktionary.org/w/index.php?title=कठिनम्&oldid=122504" इत्यस्माद् प्रतिप्राप्तम्