सामग्री पर जाएँ

कठोरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कठोरः, त्रि, (कठति पारुष्यमाचरति । “कठिरकि- भ्यामोरन्” उणां १ । ६५ । इतिकठ + ओरन् ॥) कठिनः । इत्यमरः । ३ । १ । ७६ ॥ (यथा, भागवते ३ । १९ । १५ । “प्रवृद्धरोषः स कठोरसुष्टिना नदन् प्रहत्यान्तरधीयतासुरः” ॥ दारुणः । तथाहि भागवते । ५ । १३ । ३ । “कठोरदंशैर्मशकैरुपद्रुतः” ॥ अतिविस्तृतः । तत्रैव ६ । १२ । २ । “युगान्ताग्निकठोरजिह्वं” ॥ पूर्णः । तथाहि । “स तप्तकार्त्तस्वरभास्वराम्बरः कठोरताराधिपलाच्छनच्छविः” । इति माघः । १ । २० ॥ “कठोरताराधिपस्य पूर्णेन्दोः” इति तट्टीकायां मल्लिनाथः ॥)

"https://sa.wiktionary.org/w/index.php?title=कठोरः&oldid=122532" इत्यस्माद् प्रतिप्राप्तम्