कडङ्गरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कडङ्गरः, पुं, (कडात् भक्षणीयतण्डुलादेः सकाशात् ग्रियते क्षिप्यते दूरीक्रियते इति भावः । कड + गिरतेः कर्म्मणि खच् । यद्वा कडं भक्षणीयं शस्यादि गिरति उद्गिरति आत्मनः सकाशात् । गॄ + अच् ।) वुषं इत्यमरः । २ । ९ । २२ । आग्डा इति भाषा ॥ (“नीवारपाकादि कडङ्गरीयै- रामृश्यते जानपदैर्न कच्चित्” । इति रघुः । ५ । ९ ॥ कडङ्गरं वुषम् अर्हन्तीति कडङ्गरीया इति तट्टीकायां मल्लिनाथः ॥)
