सामग्री पर जाएँ

कडारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कडारः, पुं, (गड । सेचने इति + “गडेः कड् च” । उणाम् । ३ । १३५ । इति आरन् कडादेशश्च धातोः ।) पिङ्गलवर्णः । तद्वर्णयुक्ते त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा माघः । ५ । ३ । “सविव्युरम्बरविकाशि चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः” ॥) कडारस्तृणवह्निवत् इत्यन्ये इति भरतः ॥ दासः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कडारः&oldid=122566" इत्यस्माद् प्रतिप्राप्तम्