सामग्री पर जाएँ

कणगुग्गुलु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कणगुग्गुलुः, पुं, (कणश्चासौ गुग्गुलुश्चेति ।) गुग्गुलु- प्रभेदः । तत्पर्य्यायः । गन्धराजः २ स्वर्णकर्णः ३ सुवर्णः ४ कनकः ५ वंशपीतः ६ सुरभिः ७ पलङ्कषः ८ ॥ अस्य गुणाः । कटुत्वम् । उष्णत्वम् । सुगन्धित्वम् । वातशूलगुल्मोदराध्मानकफनाशि- त्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कणगुग्गुलु¦ पु॰ कण--निमीलने अच् कर्म्मधा॰। महिषाख्य-गुग्गुलौ राजनि॰। प्रसङ्गात् गुग्गुलुभेदगुणादिकं भावप्र॰दर्शितमुच्यते।
“महिषाख्यो महानीलः कुमुदः पद्म इत्यपि। हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः। भृङ्गाञ्जनसवर्णस्तु महिषाख्य इति स्मृतः। महानीलस्तु विज्ञेयःस्वनामसमलक्षणः। कुमुदः कुमुदाभः स्यात् पद्मो मा-णिक्यसन्निभः। हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम्। महिषाख्यो महानीलो गजेन्द्राणां हितावुभौ। हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ। विशेषेण मनुष्याणां कनकः परिकीर्त्तितः। कदाचिन्म-हिषाख्यश्च ख्यातः कैश्चिन्नृणामपि। गुग्गुलुर्विशदस्तिक्तोवीर्य्योष्णः पित्तलः सरः। कषायः कटुकः पाके कटूरूक्षो लघुः परः। भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्योरसायनः। दीपनः पिच्छिलो बल्यः कफवातव्रणापहः। मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान्! पिडकाग्रन्थिशोफार्शोगण्डमालाः कृमीन् जयेत्! माधुर्य्याच्छ-मयेद्वातं कषायत्वाच्च पित्तहा। तिक्तत्वात् कफजित्तेनगुग्गुलुः सर्वदोषहा! स नवो वृंहणो वृष्यः पुराणस्त्वति-लेखनः। स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः। नूतनो गुग्भुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः। शुष्कोदुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः। पुराणः स तु विज्ञेयोगुग्गुलुर्वीर्य्य वर्ज्जितः। अम्लं तीक्ष्णामजीर्णञ्च व्यवायंश्रममातपम्। मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कणगुग्गुलु/ कण--गुग्गुलु m. a species of bdellium L.

"https://sa.wiktionary.org/w/index.php?title=कणगुग्गुलु&oldid=257520" इत्यस्माद् प्रतिप्राप्तम्