कण्टाफलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कण्टाफलः, पुं, (कटि + भावे + अप् । कण्टा कण्टक- मयवेष्टनं तदुपलक्षितं फलमस्य ।) पनसवृक्षः । इति शब्दमाला । का~टाल इति भाषा ॥ अस्य पक्वफलगुणाः । सुमधुरत्वम् । रक्तबर्द्धकत्वम् । स्निग्धत्वम् । शीतलत्वम् । दुर्ज्जरत्वम् । वायु- पित्तनाशित्वम् । श्लेष्मशुक्रबलप्रदत्वञ्च । इति राज- वल्लभः ॥ पिच्छिलत्वम् । गुरुत्वम् । हृद्यत्वम् । भ्रमदाहविशोषनाशित्वम् । रुचिकारित्वम् । ग्राहित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तद्वीज- गुणाः । रक्तपित्तनाशित्वम् । स्वादुत्वम् । फल- तुल्यगुणत्वञ्च । इति राजवल्लभः ॥ ईषत् कषा- यत्वम् । मधुरत्वम् । रुचिवायुवृद्धिकारित्वम् । गुरुत्वम् । त्वग्दोषतत्फलविकारनाशित्वञ्च । इति राजनिर्घण्डः ॥ * ॥ तस्यापक्वस्य गुणाः । कषा- यत्वम् । स्वादुत्वम् । वायुकारित्वम् । इति राज- वल्लभः ॥ शीतलत्वञ्च ॥ * ॥ घृतयुक्तस्य तस्य गुणाः स्निग्धत्वम् । हृद्यत्वम् । बलप्रदत्वम् । छर्दिनाशि- त्वम् । अचक्षुष्यत्वम् । शुक्रकारित्वम् । वातपित्त- नाशित्वञ्च ॥ तन्मज्जगुणाः । शुक्रकारित्वम् । वात- पित्तकफनाशित्वम् च ॥ विशेषात् पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः ॥ इति राजनिर्घण्टः ॥ (अन्यत्सर्व्वं पनसशब्दे द्रष्टव्यम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कण्टाफलः [kaṇṭāphalḥ], The bread-fruit tree, The Panasa tree.
