कण्ठकिफल
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कण्ठकिफल¦ पु॰ कण्टकि कण्टकयुक्तं फलमस्य। पनसेस्त्रियां ङीप् सा च
१ वार्त्ताक्यां
६ शोणझिण्ट्यां
३ मधुख-र्ज्जूर्य्याञ्च राजनि॰ तस्य पर्य्यायगुणादि भाव॰ उक्तं यथा
“पनशः कण्टकिफलः पनसोऽतिवृहत्फलः
“पनशं शी-तलं पक्वं स्निग्धं पित्तानिलापहम्। तर्पणं वृंहणं स्वादु-मांसलं श्लेष्मलं भृशम्। बल्यं शुक्रप्रदं हन्ति रक्तपित्त-क्षतव्रणान्। आमन्तदेव विष्टम्भि वातलन्तुवर गुरु। दाह-कृत् मधुरं बल्यं कफमेदोविवर्द्धनम्। पनसोद्भूतवीजानि वृष्याणि मधुराणि च। गुरूणि बद्धविट्कानि सृष्टमूत्राणि संवदेत्”। अन्यच्च।
“मज्जा पनसजोवृष्यो वात-पित्तकफापहः। विशेषात् पनसोवर्ज्यः गुल्मिभिर्मन्दबह्निभिः”।
