कण्ठशुण्ठी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कण्ठशुण्ठी¦ स्त्री सुश्रुतोक्ते तालुगते मुखरोगभेदे स च रोगः
“तालुगतास्तु गलशुण्ठिकेत्युपक्रम्य
“श्लेष्मासृग्भ्यां तालु-मूलात् प्रवृद्धो दीर्घः शोफाध्मानवस्तिप्रकाशः। तृष्णाश्वा-सकासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना” इति लक्षितः। गणशुण्ठीत्यप्यत्र स्त्री।
