सामग्री पर जाएँ

कण्डरीक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कण्डरीक¦ पु॰ सप्तजातिस्मरमध्ये विप्रभेदे तेषां पूर्वजन्मवृत्ता-न्तसहिता कथा हरिवंशे दर्शिता यथा
“मगालवस्यचरितं कण्डरीकस्य चैवहि” इत्युपक्रम्य।
“वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च। खसृमःपितृवर्त्ती च नामभिः कर्म्मभिस्तथा। कौशिकस्य सुतास्तातशिष्या गर्गस्यभारत!। पितर्य्युपरते सर्व्वेव्रतवन्तस्तदाऽ-भवन्। नियोगात्ते गुरोस्तस्य गां दोग्ध्रीं समकालयन्। समानवत्सां कपिलां सर्व्वे न्यायागतां तदा। तेषां पथिक्षुधार्त्तानां बाल्यान्मोहाच्च भारत। क्रूरा बुद्धिः सम-भवत्तां गां वै हिंसितुं तदा। तान् कविः खसृमश्चैवावोचतां नेति वै तदा। न चाशक्यन्त ताभ्यां ते तदावारयितुं द्विजाः। पितृवर्त्ती तु यस्तेषां नित्यं श्रद्धा-न्वितो द्विजः। स सर्व्वानब्रवीद्भ्रातॄन् कोपाद्धर्म्मे समा-हितः। यद्यवश्यं प्रहन्तव्यं पितॄनद्दिश्य साध्विमाम्। प्रकुर्व्वीमहि गां सम्यक् संर्व्व एव समाहिताः। एवमेषा-ऽपि गौर्द्वर्मं प्राप्स्यते नात्र संशयः। पितॄनम्यर्च्य धर्मेणनाधर्मो नो भविष्यति। तथेत्युक्त्वा तु ते सर्वे प्रोक्षयित्वाच गान्ततः। पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत!। उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन्। शार्द्दूलेन हताधेनुर्वत्सोऽयं प्रतिगृह्यताम्। आर्ज्जवात् स तु वत्सं तंप्रतिजग्राह वै द्विजः। मिथ्योपचर्य्य ते तन्तु गुरुमन्यायतोद्विजाः। कालेन समयुज्यन्त सर्व एवायुषः क्षये। ते वै क्रूर-तया हिस्रा अनार्य्यत्वात्गुरौ तथा। उग्रा हिंसाविहाराश्च[Page1631-b+ 38] सप्ताजायन्त सोदराः। लुब्धकस्यात्मजास्तात। बलवन्तो म-नीषिणः। पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गान्तदा। स्मृतिप्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत्। जाता व्याधादशार्णेषु सप्त धर्मविचक्षणाः। स्वधर्मनिरताः सर्वे लोभा-नृतविबर्ज्जिताः। तावन्मात्रं प्रकुर्व्वन्ति यावता प्राण-धारणम्। शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत्। नामधेयानि चाप्येषामिमान्यासन् विशाम्पते!। निर्वैरोनिर्वृतिः क्षान्तो निर्मन्युः कृतिरेव च। वैघसो मातृवर्त्तीच व्याधाः परमधार्मिकाः। तैरेवमुषितैस्तात हिंसाधर्म-परैः सदा। माता च पूजिता वृद्धा पिता च परितो-षितः। यदा माता पिता चैव संयुक्तौ कालधर्मणा। तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन्। शुभेन वर्म-णा तेन जाता जातिस्मरा मृगाः। त्रासानुत्पाद्य संवि-ग्ना रम्ये कालञ्जरे गिरौ। उन्मुखो नित्यवित्रस्तः स्त-ब्धकर्णो विलोचनः। पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः। तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम्। आसन् वनेचरा दान्ता निर्द्वन्द्वा निष्परिग्रहाः। ते सर्वेशुभकर्माणः सधर्माणो वनेचराः। योगधर्ममनुध्यान्तोविहरन्ति स्म तत्र ह। मरुं साध्य जहुः प्राणान् लघ्वा-हारास्तपस्विनः। तेषां मरुं साधयतां पदस्थानानि भा-रत!। तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप!। कर्मणातेन ते तात! शुभेनाशुभवर्ज्जिताः। शुभाच्छुभतरां योनिंचक्रवाकत्वमागताः। शुभे देशे शरद्वीपे सप्तासन् वै जलौ-कसः। त्यक्त्वा सहचरीधर्मं मुनयो धर्मचारिणः। सुमनाःशुचिवाक् शुद्धः पाञ्चकश्छिद्रदर्शनः। सुनेत्रश्च स्वत-न्त्रश्च शकुना नामतः स्मृताः। पञ्चमः पाञ्चिकस्तत्र सप्त-जातिष्वजायत। षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्रमः। तेषान्तु तपसा तेन सप्तजातिकृतेन वै। योगस्यचाभिनिर्वृत्या प्रतिभानाच्च शोभनात्। पूर्ब्बजातिषु यद्-ह्म श्रुतं गुरुकुलेषुवै। तथैवावस्थिता बुद्धिः संसारेष्वपिर्त्तताम्। ते ब्रह्मचारिणः सर्वेविहङ्गाः ब्रह्मवादिनः। गोगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह। ते योगधर्म-निरताः सप्त मानसचारिणः। पद्मगर्भोऽरविन्दाक्षः क्षी-रगर्भः सुलोचनः। उरुविन्दुः सुविन्दुश्च हेमगर्भस्तु स-प्तमः। वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन्। तत्रते शकुना राजंश्चत्वारो योगधर्मिणः। योगभ्रष्टास्त्रय-श्चैव देहन्यासकृतोऽभवन्। काम्पिल्ये नगरे ते तु ब्रह्मदत्त-पुरोगमाः। जाताः सप्त महात्मानः सर्वे विगतकलमषाः[Page1632-a+ 38] ज्ञानध्यानतपःपूता वेदवदाङ्गपारगाः। स्मृतिमन्तोऽत्र च-त्वारस्त्रयस्तु परिमोहिताः। स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्म-दत्तो महायशाः। यथा ह्यासीत् पक्षिभावे सङ्कल्पःपूर्व्वचिन्तितः। छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः। जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ। सस्वायौ ब्र-ह्मदत्तस्य पूर्व्वजातिसहोषितौ। पाञ्चालः पाञ्चिकस्तत्रकण्डरीकस्तथाऽपरः। पाञ्चालो बह्वृचश्चासीदाचार्य्यत्वंचकार ह। द्विवेदः कण्डरीकस्तु च्छन्दोगोऽध्वर्य्युरेव च। सर्व्वसत्त्वरुतज्ञस्तु राजासीदणुहात्मजः। पाञ्चालक-ण्डरीकाभ्यां तस्य सख्यमभूत्तदा। ते ग्राम्यधर्म्मनिरताःकामस्य वशवर्त्तिनः। पूर्व्वजातिकृतेनासन् धर्मकामार्थ-कोविदाः” प्रसङ्गागतमन्यदुपवर्ण्ण्य तेषु चतुर्ण्णां वक्ष्य-माणश्लोकश्रावणाय ब्राह्मणनियोजनमुक्त्वा मुक्तिमुप-वर्ण्ण्य अवशिष्टानां मुक्तिदर्शनायोक्तं यथा।
“अथराजा शिरःस्नातो लब्धा नारायणाद्वरम्। प्रवि-वेश पुरं प्रोतो रथमारुह्य काञ्चनम्। तस्य रश्मीन्प्रत्यगृह्णात् कण्डरीको द्विजर्षभः। चामरव्यजनञ्चापिबाभ्रव्यः समवाक्षिपत्। इदमन्तरमित्येवं ततः स ब्रा-ह्मणस्तदा। श्रावयामास राजानं श्लोकं तं सचिवौच तौ। [सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ। चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे। तेऽभिजाताःकुरुक्षेत्रे ब्राह्मणा वेदपारगाः। प्रस्थिता दूरमध्यानंथूयं तेभ्योऽवसीदथ]। तच्छुत्वा मोहमगमद्ध्रह्मदत्तोनराधिपः। सचिवश्चास्य पाञ्चाल्यः कण्डरीकस्तथैवच। स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ। दृष्ट्वाबभूवुरस्वस्थाः पौराश्च सुहृदस्तथा। मुहूर्त्तमेव राजास सह ताभ्यां रथे स्थितः। प्रतिलभ्य ततः संज्ञांप्रत्यागच्छदरिन्दम!। ततस्ते तत् सरः स्मृत्वा योगन्त-सुपलभ्य च। ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन्। अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम्। जगामब्रह्मदत्तोऽथ सदारो वनमेव ह। कण्डरीकोऽपि ध-र्म्मात्मा साङ्ख्ययोगमनुत्तमम्। प्राप्य योगगति सिद्धोविशुद्धः स्वेन कर्म्मोणा” हरिवं

२१ ,

२२ ,

२३ ,

२४ अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कण्डरीक m. N. of a man Hariv.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the minister of पञ्चाल Brahmadatta; remembered his previous birth as a son of कौशिक, left for the forest to practise योग with his brother minister. M. २०. २४; २१. ३१.

"https://sa.wiktionary.org/w/index.php?title=कण्डरीक&oldid=427185" इत्यस्माद् प्रतिप्राप्तम्