कण्डूः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कण्डूः, स्त्री (कण्डूय + सम्पदादित्वात् क्विप् अलोप- यलोपौ ।) रोगविशेषः । चुल्कनि खोस् इत्यादि भाषा । (यथा, भागवते । २ । ७ । १३ । “षष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्त्त कषाण कःण्डू” ॥) तत्पर्य्यायः । खर्ज्जुः २ कण्डूया ३ । इत्यमरः । २ । ६ । ५३ ॥ कण्डूति ४ । इति तट्टीका ॥ कण्टूय नम् ५ । इति राजनिर्घण्डः ॥ तच्चिकित्सा यथा, -- “दूर्ब्बानिशायुतो लेपः कण्डूपामविनाशनः । कृमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः ॥ १ ॥ हरिद्रायाः पलान्यष्टौ षट्पलं हविषस्तथा । क्षीराढकेन संयुक्तं खण्डस्यार्द्धशतं तथा ॥ पचेन्मृद्वग्निना वैद्यो भाजने मृण्मये दृढे । त्रिकटुत्रिजातकञ्चैव कृमिघ्नं त्रिवृता तथा ॥ त्रिफला केशरं मुस्तं लौहं प्रति पलं पलम् । संचूर्ण्य प्रक्षिपेत्तत्र कर्षमेकन्तु भक्षयेत् ॥ कण्डूविष्फोटदद्रूणां नाशनं परमौषधम् । प्रतप्तकाञ्चनाभासो देहो भवति नान्यथा ॥ शीतपित्तोदर्द्दकोठान् सप्ताहादेव नाशयेत् । हरिद्रानामतः खण्डः कण्डूनां परमौषधम्” ॥ इति हरिद्राखण्डः ॥ २ ॥ “अमृतवृषपटोलं मुस्तकं सप्तपर्ण खदिरमसितवेत्रं निम्बपत्रं हरिद्रे । विविधविषविसर्पान् कुष्ठविष्फोटकण्डू रपनयति मसूरीं शीतपित्तं ज्वरञ्च” ॥ इति अमृतादि ॥ ३ ॥ इति भैषज्यरत्नावली ॥ (“द्विधा ते कोठपिडका कण्डू गण्डान् प्रकुर्व्वते” । इति वाभटः ॥ * ॥ “चन्दननलदकृतमालनक्त- मालनिम्बकुटजसर्षपमधूकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति” ॥ इति चरकः ॥)
