कण्वः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कण्वः, पुं, (कण् + क्वन् ।) मुनिविशेषः । इति मेदिनी ॥ स तु पुरुवंशजाताप्रतिरथनामक्षत्त्रिय- पुत्त्रः । यथा, -- “सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः । तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः” ॥ इति श्रीभागवते । ९ । २० । ६ ॥ (अपर ऋषिभेदः । अनेनैव मुनिशार्दूलेन यजुर्व्वेदीयकाण्वशाखा प्र- णीता । यथा, यजुर्व्वेदे १७ । ७४ । “यामस्य कण्वोऽदुहत् प्रपीनां सहस्रधारां पयसा महीं गाम्” ॥ तथा, भागवते च १२ । ६ । ७४ । “यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहुर्वाजसन्न्यस्ताः काण्वमाध्यन्दिनादयः” ॥ अयन्तु कश्यपवंशोद्भवः शकुन्तलायाः प्रतिपालक पिता । यथा, महाभारते १ । शाकुन्तले । ७० । ३० । “महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्” ॥ एतस्य सविस्तरन्तु तत्रैव ७१ अध्याये द्रष्टव्यम् । अयमेव गोत्रप्रवर्त्तकः । ऋग्वेदे १ । ४४--५० सूक्तेषु ऋषिगोत्रप्रवर्त्तक कण्ववृत्तान्तमवध्येयम् ॥ कण्व इत्यस्यार्थः कण्वः सुखमयः तत्त्वविद्याप्र- भावात् नत्वयं संसारजन्यसुखमयः नहि तत्त्व- ज्ञानिनां क्वचित् संसारासक्तिः अविद्याधर्म्मा- भावादिति नीलकण्ठः । विद्या क्रियाकुशलः मेधावी च । इति ऋग्वेदभाष्यकृद्दयानन्दः ॥ स्वनामाख्याततीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ४४ । “कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम् । धर्म्मारण्यं हि तत्पुण्यमाद्यञ्च भरतर्षभ !” ॥)
