कतक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कतकः, पुं, (तक् + हासे + बाहुलकाद्घः । कस्य जलस्य तकः हासः प्रकाशः प्रसाद इति यावत् अस्मात् ।) वृक्षविशेषः । निर्म्मली इति भाषा । तत्पर्य्यायः । अम्बुप्रसुदः २ कतः ३ तिक्तफलः ४ रुच्यः ५ छेदनीयः ६ गुच्छफलः ७ कतफलः ८ ति- क्तमरिचः ९ ॥ अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । चक्षुर्हितत्वम् । रुचिकारित्वम् । कृमि- दोषशू लदोषनाशित्वच्च । तस्य वीजं अम्बुप्रसाद- नम् । इतिराजनिर्घण्टः ॥ (यथा, मनुः । ६ । ६७ । “फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारिप्रसीदति” ॥ “पयः प्रसादि कतकङ्कतकं तत्फलञ्च तद् । कतकस्य फलं नेत्र्यं जलनिर्म्मलता करम् । वातश्लेष्महरं शीतं मधरं तुवरं गुरु” ॥ इति भावप्रकाशः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कतक¦ पु॰ तक--हासे बा॰ घ कस्य जलस्य तको हासः प्रकाशोयस्मात्
५ ब॰। (निर्माल्ली) वृक्षभेदे राजनि॰। तस्य हि फल-सम्पर्कात् जलप्रसादः
“फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्। न नामग्रहणादेव तस्य वारि प्रसीदति” मनुः।
“कतकम्यफलं नेत्र्यं जलनिर्म्मलताकरम्। वातश्लेष्महरं शीतंमधुरं तुवरं गुरु” भावप्र॰ तद्गुणाद्युक्तम्। तस्य फलम्अण् तस्य लुक् तत्फले न॰।
“जलप्रसादि कतकं तत्फलंकतकं स्मृतम्” भावप्र॰ उक्तेः वृक्षपरत्वेऽपि न॰ अयञ्चसुश्रुते काकोल्यादिरित्युपक्रम्य कतकगिलोड्येत्यादि-ना मधुरवर्गे उक्तः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कतक¦ m. (-कः) The clearing nut plant, (Strychnos potatorum:) one of the seeds of this plant being rubbed upon the inside of the water jars used in Bengal, occasions a precipitation of the earthy par- ticles diffused through the water.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कतक m. Strychnos Potatorum or the clearing nut plant (its seeds rubbed upon the inside of water-jars precipitate the earthy particles in the water W. ) Mn. vi , 67 Sus3r.
कतक m. N. of a commentator on the रामायण.