कथकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कथकः, त्रि, (कथयति यः । कथ + कर्त्तरि ण्वुल् ।) वक्ता । कथोपजीवी । नाटकवर्णनकर्त्ता । तत्प- र्य्यायः । एकनटः २ कथाप्राणः ३ । इति शब्द- रत्नावली ॥ (यथा महाभारते १ । २१५ । ३ । “कथकाश्चापरे राजन् श्रमणाश्च वनौकसः” ॥ ग्रन्थकर्तृविशेषः । (यथा, अनुमानचिन्तामणिः । “वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधि- रुद्भाव्यः” ॥)
