सामग्री पर जाएँ

कथितपदता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कथितपदता¦ स्त्री कथितं पूर्ब्बमुक्तं पदं यत्र वाक्ये तस्य भावःतल्। अलङ्कारोक्ते पुनरुक्ततारूपे वाक्यदोषभेदे
“अधिक-न्थूनकथितपदता हतवृत्तता” सा॰ द॰ वाक्यमात्रगत-दोषगणनायामुक्तम्
“रतिलीलाश्रमं भिन्ते सलील-मनिलो वहन्” अत्र लीलाशब्दस्य द्विःप्रयोगात्कथितपदत्वं वाक्ये दीषः उद्देश्यप्रतिनिर्द्देश्ये तु नायंदोषः। यथा
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यादौ ताम्रशब्दस्योद्देश्यप्रतिनिर्द्देश्यतया नोक्तदोषः।

"https://sa.wiktionary.org/w/index.php?title=कथितपदता&oldid=258794" इत्यस्माद् प्रतिप्राप्तम्