कदम्बः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदम्बः, पुं, (कद्यते दर्शनात् विरहिणां चित्तवैक्लव्यं जायतेऽनेन । कद् + करणे अम्बच् ।) वृक्षविशेषः । कदम् इति भाषा । तत्पर्य्यायः । नीपः २ प्रियकः ३ हलिप्रियः ४ । इत्यमरः । २ । ४ । ८९ ॥ कादम्बः ५ । इति तट्टीका ॥ षट्पदेष्टः ६ प्रावृषेण्यः ७ हरि- प्रियः ८ । इति रत्नमाला ॥ वृत्तपुष्पः ९ भुरभिः १० ललनाप्रियः ११ कादम्बर्य्यः १२ सीधुपुष्पः १३ महाढ्यः १४ कर्णपूरकः १५ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । कषायत्वम् । वातपित्त- कफार्तिनाशित्वम् । शीतलत्वम् । शुक्रबर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (यथा भावप्रकाशे । “कदम्बो मधुरः शीतो कषायो लवणो गुरुः । सरो विष्टम्भकृद्रूक्षः कफस्तन्यानिलप्रदः” ॥ तथा च सुश्रुतः । “गरदोषहरनीपं प्राचीनामलकं तथा” ॥) अत्र नीपहलिप्रियौ धाराकदम्बवाचिनावपि कदम्बसाम्यात् पठितौ । यथा साञ्जः ॥ “नीपो महाकदम्बः स्याद्धाराकदम्ब इत्यपि । द्वितीयोऽल्पप्रसरश्च वृत्तपुष्पः कदम्बकः” ॥ इत्यस्य भेदः । तथा रत्नेऽपि । हारिद्रस्तु रजो बलः । यथामरटीकायां भरतः ॥ “धुलीकदम्बका धारा कदम्बः षट्पदप्रियः ॥ वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः । नीपो महाकदम्बोऽपि तथा बहुफलो मतः” ॥ (यथा, -- साहित्यदर्पणम् । “यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलि- तमालतीसुरभयः प्रौढाः कदम्बानिलाः” ॥ कविभिस्तु प्रायशो वर्षाकाले एव अस्य वर्णनं क्रियते । माघे रैवतकपर्व्वतवर्णने द्रष्टव्यम् ॥ * ॥) सर्षपः । इति मेदिनी ॥ देवताडकतृणम् । इति रत्नमाला ॥ (कं प्रजापत्यधिष्ठातृकं औपस्थेन्द्रियं दमयति इति व्युत्पत्त्या जितेन्द्रियतत्त्वज्ञानी । कदं कदनं विनाशं वाति गच्छति प्रलये इति शेषः । इति व्यत्पत्त्या जगत् । यथा, -- “स एव सौम्य नित्यं राजते मूले विश्व कदम्बस्य परमो वै पुरुष आत्मा” ॥ इति श्रुतौ ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदम्बः [kadambḥ] कदम्बकः [kadambakḥ], कदम्बकः [कद् करणे अम्बच् Tv.]
A kind of tree (Stephegyne Parviflora Korth] (said to put forth buds at the roaring of thunder-clouds); कतिपयकुसुमोद्गमः कदम्बः U.3.2,42; Māl.3.7; Me.25; R.12.99; मुक्त्वा कदम्ब-कुटजार्जुन-सर्ज-नीपान् Ṛs.3.13. The tree is common throughout India except in Konkan. Its fruit is hard and inedible.
A kind of grass.
Turmeric.
The mustard-seed plant.
A particular mineral substance.
Dust.
Fragrance; cf. कदम्बः पुंसि नीपे स्यात्तिनिशे वरुणद्रुमे । धूल्यां समूहे गन्धे च ... Nm. -म्बी N. of a plant (देवदाली). Ś.6; U.5.18. -म्बम् A multitude.
कम् A multitude, group; छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्य- स्यतु Ś.2.6.
The flower of the Kadamba tree; पृथुकदम्बकदम्बकराजितम् Ki.5.9.
A kind of grass (देवताड).
Comp. अनिलः a fragrant breeze (charged with the odour of Kadamba flowers); ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः K. P.1.
Autumn (वर्षर्तु); इदं कदम्बानिलभर्तुरत्यये Ki.4.24. -कारेकन्यायः see under न्याय. -पुष्पा, -ष्पी a plant the flowers of which resemble those of Kadamba. -ब्रह्ममण्डलम् (in Astro.) The polar circle of the ecliptic. -युद्धम् A kind of amorous play; Vātsyā. -वायुः a fragrant breeze; = ˚अनिल.
