कदरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदरः, पुं, (कं जलं दृणाति श्लेष्मणा संहतजलं नाश- यतीत्यर्थः । क + दॄ + अच् ।) श्वेतखदिरः । का~टा वावला इति भाषा । तत्पर्य्यायः । सोमवल्कः २ । इत्यमरः । २ । ४ । ४० ॥ ब्रह्मशल्यः ३ खदिरोपमः ४ । इति रत्नमाला ॥ (श्वेतसारः ५ । खदिरः ६ । सोमवल्कलः ७ । इति भावप्रकाशः ॥ गुणानाह तत्रैव । “कदरो विशदो वर्ण्यो मुखरोगकफास्रजित्” ॥ व्यवहारो यथा, चरके । “तिन्दुकपियालवदरकदरखदिरसप्तपर्णाश्चकर्णा- र्ज्जुनासनारिमेदा इति दशेमान्युदर्द्दप्रशमनानि भवन्ति” ॥) क्रकचः । करात् इति भाषा ॥ व्याधि- भेदः । इति मेदिनी ॥ कडा जामुडा इति भाषा ॥ तस्य लक्षणम् । यथा निदाने । “शर्करोन्मथिते पादे क्षते वा कण्टकादितः । ग्रन्थिः कोलवदुत्पन्नो जायते कदरस्तु सः” ॥ (“शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः । मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ॥ सकोलः कठिनो ग्रन्थिर्निम्नमध्योन्नतोपि वा । कोलमात्रः सरुक्स्रावी जायते कदरस्तु सः” ॥ इति सुश्रुतः ॥) तच्चिकित्सा यथा भावप्रकाशे ॥ “दहेत् कदरमुद्धृत्य तैलेन दहनेन वा” ॥ अङ्कुशः । इति हारावली ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदरः [kadarḥ], 1 A saw.
An iron goad for driving an elephant.
N. of a tree sometimes substituted for Khadira as a sacrificial post. -रः, -रम् A corn, a callosity of the feet caused by external friction. -रम् coagulated milk.
