कदर्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदर्य्यः, त्रि, (कुसितोऽर्य्यः स्वामी ॥ कुगतीति- समामः ।) क्षुद्रः । कृपणः । इत्यमरः । ३ । १ । ४८ ॥ “आत्मानं धर्म्मकृत्यञ्च पुत्त्रदारांश्च पीडयन् । यो लोभात् मञ्चिनोत्यर्थान् स कदर्य्य इति स्मृतः” ॥ इति स्मृतिः ॥ (तथा, छान्दोग्योपनिषदि । ५ । ११ । ५ । “तेभ्योऽप्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार सहप्रातः सञ्जिहान उवाच नमेस्तेनो जनपदे न कदर्य्यो न मद्यपो नानाहिताग्नि र्नाविद्वानिति” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदर्य्य¦ त्रि॰ कुत्सितोऽर्य्यः स्वामी कुगतिस॰ कोः कद्। सतिविभवे
१ अदातरि, क्षुद्रे।
“आत्मानं धर्मकृत्यञ्च पुत्रदारांश्चपातयन्। यो लोभात् सञ्चिनोत्यर्थान् स कदर्य्य इतिस्मृतः” इत्युक्तलणे
२ अर्थसञ्चयकारके च।
“दीक्षितस्य कद-र्य्यस्य बद्धस्य निगडस्य च”
“आत्रेयस्य कदर्य्यस्य वदान्यस्यच बार्द्धुर्षेः” मनुः
“उवाच न मे जनपदे कदर्य्यो न म-द्यपोनानाहिताग्निर्नाविद्वान् न खेरी” छा॰ उ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कदर्य्य¦ mfn. (-र्य्यः-र्य्या-र्य्यं)
1. Avaricious, miserly.
2. Little, insignificant, mean.
3. Bad, disagreeable. m. (-र्य्यः) A miser. E. कत् bad, vile, and अर्य्य possessor.