सामग्री पर जाएँ

कदर्य्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कदर्य्यः, त्रि, (कुसितोऽर्य्यः स्वामी ॥ कुगतीति- समामः ।) क्षुद्रः । कृपणः । इत्यमरः । ३ । १ । ४८ ॥ “आत्मानं धर्म्मकृत्यञ्च पुत्त्रदारांश्च पीडयन् । यो लोभात् मञ्चिनोत्यर्थान् स कदर्य्य इति स्मृतः” ॥ इति स्मृतिः ॥ (तथा, छान्दोग्योपनिषदि । ५ । ११ । ५ । “तेभ्योऽप्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार सहप्रातः सञ्जिहान उवाच नमेस्तेनो जनपदे न कदर्य्यो न मद्यपो नानाहिताग्नि र्नाविद्वानिति” ॥)

"https://sa.wiktionary.org/w/index.php?title=कदर्य्यः&oldid=123016" इत्यस्माद् प्रतिप्राप्तम्