कद्रुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कद्रुः, पुं, (कद् + रुः ।) पिङ्गलवर्णः । तद्वति त्रि । इत्यमरः । १ । ५ । १६ ॥
कद्रुः, स्त्री, (कद् + रुः । यद्वा मृगष्वादित्वात् साधुः ।) नागमाता । इति मेदिनी ॥ सा तु दक्षकन्या कश्यपपत्नी च । इति पुराणम् ॥ (यथा, रामा- यणम् । ३ । २० । २९ । “रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनस्तथा । सुरसाऽजनयन्नागान् राम ! कद्रुश्च पग्नगान्” ॥)
