सामग्री पर जाएँ

कद्वदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कद्वदः, त्रि, (कुत्सितं वदति यः । वदेः पचाद्यच् । कुत्सितः वदः इति वा “रथवदयोश्च” । ६ । २ । १०२ । इति कदादेशः ।) कुत्सितवक्ता । तत्प- र्य्यायः । गर्ह्यवादी २ । इत्यमरः । ३ । १ । ३७ ॥ दुर्व्वाक् ३ । अतिकुत्सितः । इति हेमचन्द्रः ॥ (यथा, भट्टिः ६ । ७५ । “सर्व्वत्र दयिताधीनं सुव्यक्तं रामणीयकम् । येन जातं प्रियापाये कद्वदं हंसकोकिलम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कद्वदः&oldid=123068" इत्यस्माद् प्रतिप्राप्तम्