कनकाचल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कनकाचलः, पुं, (कनकमयो अचलः पर्ब्बतः ।) अस्ता- चलः । सुमेरुपर्ब्बतः । इति सिद्धान्तशिरोमणिः ॥ दानविशेषः । इति स्मृतिः ॥ (अस्य परिमाणमुक्तं ब्रह्माण्डपुराणे यथा, -- “अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् । यस्य प्रसादाद्भवनं विरिञ्चेर्याति मानवः ॥ उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः । तदर्द्धेनाधरस्तद्वत् अल्पवित्तोऽपि शक्तितः ॥ दद्यादेकपलादूर्द्धं यथा शक्त्या विमत्सरः । धान्यपर्ब्बतवत् सर्व्वं विदध्यात् विधिमुत्तमम् विष्कम्भशैलास्तद्वच्च ॠत्विग्भ्यः प्रतिपादयेत्” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कनकाचल¦ पु॰ कनकमयोऽचलः।
१ सुमेरुपर्व्वते, धान्या-चलादिषु दशसु दानीयपर्व्वतेषु मध्ये दानीये स्वर्ण्णप-र्व्वते च। हेमशैलस्वर्ण्णशैलादयोऽप्यत्र। तद्दानकालपरिमा-णादि मत्स्यपु॰ उक्तं यथा
“प्रथमोधान्यशैलः स्याद्द्विती-यो लवणाचलः। गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्व्यतः। पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः। सप्तमो घृत-शैलश्च रत्नशैलस्तथाष्टमः। राजतो नवमस्तद्वद्दशमःशर्कराचलः। वक्ष्ये विधानमेतेषां यथाबदनुपूर्ब्बशः। अयने विषुवे पुण्ये व्यतीपाते दिनक्षये। शुक्लपक्षेतृतीयायामुपरागे शशिक्षये। विवाहोत्सवयज्ञेषुद्वादश्यामथवा पुनः। शुक्लायां पञ्चदश्यां वा पुण्यर्क्षेवाविधानतः। धान्यशैलादयो देयाः यथा शास्त्रविधानतः। तीर्थे चायतने वापि गोष्ठे वा भवनाङ्गने। मण्डपं कार-द्भक्त्या चतुरस्रमुदङ्मुखम्। प्रागुदक्प्लवनं तद्वत् प्राङ्मु-खं वा विधानतः! गोमयेनानुलिप्तायां मूमावास्तीर्य्यवैकुशान्। तन्मध्ये पर्वतं कुर्य्याद्विष्कम्भपर्व्वतान्वितम्”। विधानयुक्तविष्कम्भपर्ब्धतनिर्म्माणप्रकारादि धान्यपर्व्वतहेमाब्दे वक्ष्यते। अस्य परिमाणमुक्तं ब्रह्माण्ड पु॰।
“अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्। यस्य प्रसा-दाद्भवनं विरिञ्चेर्याति मानवः। उत्तमः पलसाहस्रोमध्यमः पञ्चभिः शतैः। तदर्द्धेनाधरस्तद्वत् अल्पवित्तोऽपि शक्तितः। दद्यादेकपलादूर्द्धं यथा शक्त्या विम-त्सरः। धान्यपर्व्वतवत् सर्व्वं विदध्यात् विधिमुत्तमम्। विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतीपादयेत्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कनकाचल¦ m. (-लः) The mountain Sumeru. E. कनक, and अचल a mountain; the golden mountain.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कनकाचल/ कनका m. " the golden mountain " , N. of मेरु
कनकाचल/ कनका m. a piece of gold shaped like a mountain(See. हेम-पर्वत).