सामग्री पर जाएँ

कनकाचलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कनकाचलः, पुं, (कनकमयो अचलः पर्ब्बतः ।) अस्ता- चलः । सुमेरुपर्ब्बतः । इति सिद्धान्तशिरोमणिः ॥ दानविशेषः । इति स्मृतिः ॥ (अस्य परिमाणमुक्तं ब्रह्माण्डपुराणे यथा, -- “अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् । यस्य प्रसादाद्भवनं विरिञ्चेर्याति मानवः ॥ उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः । तदर्द्धेनाधरस्तद्वत् अल्पवित्तोऽपि शक्तितः ॥ दद्यादेकपलादूर्द्धं यथा शक्त्या विमत्सरः । धान्यपर्ब्बतवत् सर्व्वं विदध्यात् विधिमुत्तमम् विष्कम्भशैलास्तद्वच्च ॠत्विग्भ्यः प्रतिपादयेत्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कनकाचलः&oldid=123106" इत्यस्माद् प्रतिप्राप्तम्