सामग्री पर जाएँ

कन्तुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्तुः, पुं, (“कंशम्भ्यां वभयुस्तितुतयसः इति तुः” । ५ । २ । १३८ । कम् + तुः । कामयते इति कमु कान्तौ । अर्जिदृशीत्यादिना कुप्रत्यये तुकि सिद्ध- त्वात् । “कमिभनिजनिगाभायाहिभ्यश्च” । उणां १ । ७३ ।) कामदेवः । इति त्रिकाण्डशेषः ॥ हृदयम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (चित्रम् । इति उज्जलदत्तः । कं सुखं अस्यास्तीति व्युत्पत्त्या सुखी जनः ॥)

"https://sa.wiktionary.org/w/index.php?title=कन्तुः&oldid=123158" इत्यस्माद् प्रतिप्राप्तम्