कन्दम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कन्दम्, क्ली पुं, (कन्दयति जिह्वायाः वैक्लव्यं जनयति रोदयति वा भक्षयन्तं जनम् । कदि + णिच् + अच् । यद्वा कन्द्यते कन्द इति नाम्ना ज्ञायते । कदि + कर्म्मणि + घञ् ।) शूरणः । शस्यमूलम् । इति मेदिनी ॥ गृञ्जनम् । इति राजनिर्घण्टः ॥ (यथा, महाभारते १३ । १४ । ११९ ॥ “वने निवसतां नित्यं कन्दमूलफलाशिनाम्” ॥ यथा च, शान्तिशतके । २ । २० ।- “शीतं निर्झरवारिपानमशनं कन्दः सहाया मृगाः” ॥ शूरणशब्देऽस्य विशेषो ज्ञेयः ॥)
