सामग्री पर जाएँ

कन्दुकेश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कन्दुकेश्वर¦ न॰ काशीस्थे ज्येष्टस्थानस्थे शिवलिङ्गभेदे कन्दुकखेलनप्रकारः तदाविर्भावकथा च काशी॰

६५ अ॰ दर्शिता
“स्वैरं विहरतस्तस्य ज्येष्ठस्थाने महेशितुः। कौतुकेनैवविक्रीड शिवा कन्दुकलीलया। उदञ्चन्न्यञ्चदङ्गानां लाघवंपरितन्वती। निश्वासामोदमिलितभ्रमराकुलितेक्षणा। भ्रश्यद्ध्वम्मिल्लसम्माल्यसुपुटीकृतभूमिका। स्विद्यत्कपोलपत्रालीस्रवदम्बुकणोज्वला। स्फुटच्चेलांशुकपथनिर्यदङ्गप्रभाविता। उल्लसत्कन्दुकास्फालातिशोणितकराम्बुजा। कन्दुकानुगसंदृष्टिनर्त्तितभ्रूलताञ्चला। मृडानी किलखेलन्ती ददृशेजगदम्बिका। अन्तरीक्षचराभ्यां च दितिजाभ्यांमनीहरा। कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना। विद-लोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतोविधेः। तृणीकृतत्रिज-गतीपुरुषाभ्यां स्वदोर्बलात्। देवों परिजिहीर्षू तौ विष-मेषुप्रपीडितौ। दिवोऽवतेरतुः क्षिप्रं मायां स्वीकृत्य-शाम्बरीम्। धृत्वा पारिषदीं मूर्त्तिभायातावम्बिकान्ति-कम्। तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसौ। सर्व्वज्ञेनपरिज्ञातौ चाञ्चल्याल्लोचनोद्भबात्। कटाक्षिताथ देवेनदुर्गा दुर्गविघातिनी। विज्ञातनेत्रसंज्ञान्तु सर्वज्ञार्द्धशरी-रिणी। तेनैव कन्दुकेनाथ युगपन्निजघान तौ। महाबलौमहादेव्या कन्दकेन समाहतौ। परिभ्रम्यपरिभ्रम्य तौ दु-ष्टौ विनिषेततुः। वृन्तादिव फले पक्वेतालादनिललोलिते। दम्भोलिना परिहते शृङ्गेइव महागिरेः। तौ निपात्यमहादैत्यावकार्य्य करणोद्यतौ। ततः परिणतिं यातो-लिङ्गरूपेण कन्दुकः। कन्दुकेश्वरसंज्ञंच तल्लिङ्गमभबत्तदा। ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम्। कन्दुकेशसमुत्-प्रत्तिं यः श्रोष्यति मुदान्वितः। पूजयिष्यति योभक्त-स्तस्य दुःखभवं कुतः। कन्दुकेश्वरभक्तानां मानवानां[Page1650-a+ 38] निरेनसाम्। योगक्षेमं सदा कुर्य्याद्भवानी भयनाशिनी। मृडानी तस्य लिङ्गस्य पूजां कुर्य्यात् सदैव हि। तत्रैवदेव्याः सान्निध्यं पार्व्वत्या भक्तसिद्धिदम्। सर्व्वोपसर्गसंघातविघातकरणं परम्। कन्दुकेशं महालिङ्गंकाश्यां यैर्न समर्च्चितम्। कथं तेषां भवानीशौ स्यातांसर्वेप्सितप्रदौ। द्रष्टव्यं च प्रयत्नेन तल्लिङ्गं कन्दुकेश्व-रम्। कन्दुकेश्वरनामाऽपि श्रुत्वा वृजिनसन्ततिः। क्षिप्रंक्षयमवाप्नोति तमः प्राप्योष्णगुं यथा”। कन्दुकेशमप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=कन्दुकेश्वर&oldid=259809" इत्यस्माद् प्रतिप्राप्तम्